वाचस्पत्यम्
यथाक्रम || अव्य० क्रमस्य आनुरूप्यं तस्वानतिक्रमो वा अव्य- यी० । १ क्रमानुरूप्ये २ क्रमानतिक्रमे च ।
शब्दकल्पद्रुमः
यथाक्रमं || व्य, क्ली, क्रमानुरूपम् । क्रममनतिक्रम्येति व्याकरणम् ॥ (यथा, रघुवंशे । ३ । १० । “यथाक्रमं पुंसवनादिकाः क्रियाः धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥”)
अपि च । “यथाक्रमेण पुत्त्रण कार्य्या प्रेतक्रिया सदा । पतितापतिता वापि एकोद्दिष्टविधानतः ॥” इति श्राद्धतत्त्वम् ॥