वाचस्पत्यम्
यथार्थ || अव्य० अर्थमनतिक्रम्य अव्ययी० । १ सत्यतायाम् अर्थ- स्याव्यभिचारे सत्यस्वरूपे । अर्श आद्यच् । २ सत्ये त्रि० ।
शब्दकल्पद्रुमः
यथार्थं || व्य, क्ली, यथातथम् । इत्यमरः । ३ । ४ । १५ ॥ “द्बे अव्यभिचारिणि । अर्थमनतिक्रान्तं यथार्थं यथास्वरूपं यथातथं उभयत्र अव्ययीभावः । यथार्थमेवेदम् । यथातथं वक्ति सभासु विद्बान् ।” इति भरतः ॥ तत्पर्य्यायः । “सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् । यथास्थितञ्च सद्भूतेऽलीके तु वितथानृते ॥” इति हेमचन्द्रः ॥ (यथा, महाभारते । १३ । ६ । १८ । “कृतञ्चापकृतं किञ्चित् कृते कर्म्मणि सिध्यति । सुकृतं दुष्कृतं कर्म्म न यथार्थं प्रपद्यते ॥”)