शब्दकल्पद्रुमः
यथायथं || व्य, क्ली, (“यथास्वे यथायथम् ।” ८ । १ । १४ । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन् यथाशब्दस्य द्बित्वं क्लीवत्वञ्च निपा- त्यते । यथायथं ज्ञाता यथास्वभावमित्यर्थः यथा- त्मीयमितिवेति । इति सिद्धान्तकौमुदी ।)
यथा- स्वम् । इत्यमरः । ३ । ४ । १५ ॥ (अनुरूपम् । यथा, श्रीमद्भागवते । १० । १८ । १९ । “तत्रोपाहूय गोपालान् कृष्णः प्राह विहार- वित् । हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥” “यथायथं वयोवर्णाद्यनुरूपम् ।” इति तट्टी- कायां श्रीधरस्वामी ॥ यथा च, —
“लिङ्गमव्यक्तमल्पत्वात् व्याघीनां तद्यथा यथम् ॥” इति वाग्भटे निदानस्थाने प्रथमेऽध्याये ॥ “यथायथं यस्य व्याधेर्यद्रूपं तदेवाव्यक्तम् ।” इति तद्ब्याख्याने विजयरक्षितः ॥)