वाचस्पत्यम्
यथाशास्त्र || अव्य० शास्त्रस्यानुरूप्यम् अनतिक्रमो वा अव्ययी० । १ शास्त्रानुसारे २ शास्त्रानतिक्रमे च ।
शब्दकल्पद्रुमः
यथाशास्त्रं || व्य, क्ली, शास्त्रानुसारेण । शास्त्रमनति- क्रम्य । यथा, मलमासतत्त्वे । “यथाशास्त्रञ्च निर्णीतो यथाव्याधि चिकित्- सितः । न शमं याति यो व्याधिः स ज्ञेयः कर्म्मजो बुधैः ॥”