शब्दकल्पद्रुमः
यथेष्टं || व्य, क्ली, इष्टमनतिक्रम्य । यथेप्सितम् । यथा, — “कुर्य्युर्यथेष्टं तत् सर्व्वमीशास्ते स्वधनस्य वै ॥” इति दायभागः ॥