वाचस्पत्यम्
यदुनाथ || पु० यदूनां नाथो रक्षकत्वात् । श्रीकृष्णे हेमच० । यदुपत्यादयोऽप्यत्र ।
शब्दकल्पद्रुमः
यदुनाथः || पुं, (यदूनां नाथः ।) श्रीकृष्णः । इति हेमचन्द्रः । २ । १३३ ॥