संस्कृत-शब्दकोशः

यदुपति यदृच्छाशब्द

यदृच्छा

वाचस्पत्यम्

यदृच्छा ||‍ स्त्री यद् + ऋच्छ—अ—टाप् । १ स्वातन्त्र्ये, २ स्वैर- तायाम् अमरः । “यदृच्छालाभसन्तुष्टः” इति गीता ।


शब्दकल्पद्रुमः

यदृच्छा || स्त्री स्वातन्त्र्यम् । तत्पर्य्यायः । स्वैरिता २ । इत्यमरः । ३ । २ । २ ॥ स्वरिता ३ । इति तट्टीका ॥ (यथा, गीतायाम् । २ । ३२ । “यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्त्रियाः पार्थ ! लभन्ते युद्धमीदृशम् ॥”)



Correction: