संस्कृत-शब्दकोशः

यन्त्रगोल यन्त्रणा

यन्त्रण

वाचस्पत्यम्

यन्त्रण ||‍ न० यत्रि—ल्युट् । १ नियमने २ रक्षणे ३ बन्धने च मेदि० युच् । ४ पीडायाम् स्त्री टाप् ।


शब्दकल्पद्रुमः

यन्त्रणं || क्ली (यन्त्र + ल्युट् ।)
रक्षणम् । बन्धनम् । (यथा, सुश्रुते सूत्रस्थाने अष्टादशाध्याये । “यन्त्रणमत ऊर्द्धुमधस्तिर्य्यक् ॥”)
नियमनम् । इति मेदिनी । णे, ७१ ॥ (यथा, सुश्रुते उत्तर- तन्त्रे ४१ अध्याये । “रक्तक्षयाद्वैदनाभिस्तथैवाहारयन्त्रणात् । व्रणितस्य भवेच्छोषः स चासाध्यतमस्ततः ॥”)



Correction: