शब्दकल्पद्रुमः
यन्त्रणा || स्त्री (यन्त्रि + “ण्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् । टाप् ।)
पीडा । यथा, नैषधे । ४ । १० । “मदनतापभरेण विदीर्य्य नो यदुदपाति हृदा दमनस्वसुः । निविडपीनकुचद्बययन्त्रणा तमपराधमधात् प्रतिबध्नती ॥” (पीडाशब्देऽस्या विशेषो विज्ञेयः ॥)