शब्दकल्पद्रुमः
यमघण्टः || पुं, (यमं घण्टयतीति । घण्टि + अण् ।)
योगविशेषः । यथा, —
“द्बे मघापूर्ब्बफल्गुन्यौ पुष्याश्लेषा च चन्द्रयोः । ज्येष्ठानुराधा भरणी चाश्विनी कुजवासरे ॥ हस्तार्द्रा चन्द्रजे मूला पूर्ब्बाषाढा च रेवती । जीवे ह्युत्तरभाद्रश्च शुक्राहे स्वातिरोहिणी । शनिवारे शतभिषा श्रवणा यमघण्टकः ॥” इति सारसंग्रहः ॥ अपि च । “घण्टोऽखण्डर्क्षयुक्ते स्वगृहपतिदिने सौम्यवारे- ऽर्य्यमापि ।” अस्य वर्ज्ज्यकालनिर्णयो यथा, —
“यमघण्टे त्यजेदष्टौ मृत्यौ द्वादश नाडिकाः । अन्येषां पापयोगानां मध्याह्नात् परतः शुभम् ॥” अस्य दोषा यथा, —
“एभिर्जातो न जीवेत यदि शक्रसमो भवेत् । विवाहे विधवा नारी यात्रायां मरणं भवेत् ॥ निष्फलं कृषिवाणिज्यं विद्यारम्भे च मूर्खता । गृहप्रवेशे भङ्गः ष्याच्चूडायां मरणं ध्रुवम् ॥ ऋणदाने फलं नास्ति व्रतदाने च निष्फले । शुभकर्म्माणि सर्व्वानि नैव कुर्य्याद्विचक्षणः ॥” इति ज्योतिस्तत्त्वम् ॥ रविवारे १० । ११ । सोमवारे ८ । ९ । मङ्गल- वारे १७ । १८ । १ । २ । बुधवारे १३ । ६ । बृहस्पतिवारे १९ । २० । २६ । २७ । शुक्र- वारे १५ । ४ । शनिवारे २४ । २२ । इति यमघण्टयोगः ॥