संस्कृत-शब्दकोशः

यमदशन यमदूतक

यमदूत

शब्दकल्पद्रुमः

यमदूतः || पुं, (यमस्य दूतः ।)
यमस्य चरः । यथा, —
“यमदूतपिशाचाद्यैर्यत् परासुरुपास्यते । सद्भिरौषधवीर्य्याणि तस्मात्तं परिवर्ज्जयेत् ॥” इति वाग्भटे शरीरस्थाने पञ्चमेऽध्याये ॥)
धर्म्मस्व उवाच । “के यूयं विकृताकाराः पाशमुद्गरपाणयः । दंष्ट्राकरालवदना अङ्गारसदृशप्रभाः ॥ यूयं सर्व्वे महावीराः ज्वलत्पावकलोचनाः । कृता तथापि युष्माकमियं केन सुदुर्गतिः ॥” यमदूता ऊचुः । यमदूता वयं सर्व्वे यमाज्ञाकारिणः सदा । त्वद्दत्तोऽयं द्विजास्माकं सुमहान् कश्मलो- दयः ॥” इति पद्मपुराणे क्रियायोगसारे ६ अध्यायः ॥



Correction: