वाचस्पत्यम्
यमदूतिका || स्त्री यमस्य दूतीव इवार्थे कन् । १ तिन्तिडीवृक्षे अमरः । यमस्य दूत इव कायति कै—क । यमदूतक २ काके पुंस्त्री० शब्दरत्ना० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
यमदूतिका || स्त्री (यमस्य दूतिकेव ।)
तिन्तिडी- वृक्षः । (यथा, —
“जीवनं जीवनं हन्ति प्राणान् हन्ति समीरणः । किमाश्चर्य्यं क्षारभूमौ प्राणदा यमदूतिका ॥” इत्युद्भटः ॥)