संस्कृत-शब्दकोशः

यमद्रुम यमधार

यमद्वितीया

वाचस्पत्यम्

यमद्वितीया ||‍ स्त्री ६ त० । कार्त्तिकशुक्लद्वितीयायाम् “तथा यमद्वितीयायां यात्रायां मरणम्” ति० त० ।


शब्दकल्पद्रुमः

यमद्वितीया || स्त्री (यमप्रिया द्बितीया इति मध्य- पदलोपिकर्म्मधारयः ।)
कार्त्तिकशुक्लद्वितीया । भ्रातृद्बितीया इति ख्याता । तत्कृत्यं यथा । लिङ्गपुराणे । “कार्त्तिके तु द्वितीयायां शुक्लायां भ्रातृपूजनम् । या न कुर्य्याद्विनश्यन्ति भातरः सप्तजन्मनि ॥” तस्या इति शेषः । महाभारते । “कार्त्तिके शुक्लपक्षस्य द्बितीयायां युधिष्ठिर ! । यमो यमुनया पूर्ब्बं भोजितः स्वगृहे स्वयम् । तस्मान्निजगृहे पार्थ ! न भोक्तव्यमतो बुधैः ॥ यत्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् । दानानि च प्रदेयानि भगिनीभ्यो विशेषतः ॥” तथा । “यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् । अर्घ्यश्चात्र प्रदातव्यो यमाय सहजद्बयैः ॥” सहजद्वयैर्भगिनीभ्रातृभिः । अर्घ्यमन्त्रः । “एह्येहि मार्त्तण्डज पाशहस्त यमान्तकालोकधरामरेश । भ्रातृद्वितीयाकृतदेवपूजां गृहाण चार्घ्यं भगवन्नमस्ते ॥ धर्म्मराज नमस्तुभ्यं नमस्ते यमुनाग्रज । पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र नमोऽस्तु ते ॥” यमुनाञ्च संपूज्य नमस्कुर्य्यात् । “यमस्वसर्नमस्तेऽस्तु यमुने लोकपूजिते । वरदा भव मे नित्यं सूर्य्यपूत्त्रि नमोऽस्तु ते ॥” अन्नं दत्त्वा पठेत् । “भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् । प्रीतये यमराजस्य यमुनाया विशेषतः ॥” ज्येष्ठा चेत् तदाग्रजाताहमिति वदेत् ॥ अत्र भोक्तव्यं पुष्टिवर्द्धनं इति विधिसमभिव्याहृत- फलश्रुत्या भोजननियमस्य प्राधान्यात्तस्य मुख्य- कालोऽष्टधाविभक्तदिनपञ्चमांशो ग्राह्यः । यथा दक्षः । “पञ्चमे च तथा भागे संविभागो यथार्हतः । पितृदेवममनुष्याणां कीटानाञ्चोपदिश्यते ॥ संविभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् । इतिहासपुराणाद्यैः षष्ठञ्च सप्तमं नयेत् ॥” संविभागो विभज्यान्नस्य प्रतिपादनम् । देवोऽत्र वैश्वदेवसम्बन्धी । पञ्चमांशालाभे तु । “न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् । नातिप्रगे नातिसायं नातिसन्ध्यासमीपतः ॥” इति मनूक्तपर्य्यूदस्तसूर्य्योदस्तेतरकालोऽपि ग्राह्यः । सौहित्यं तृप्तिः । अत्र भोजनस्य राग- प्राप्तत्वेऽपि तत्कालस्य । “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः ॥” इति कात्यायनीयेन नियमितत्वाद्भोजनकालस्य वैधत्वेन शास्त्रीयत्वात् न सामान्यशास्त्रप्राप्त्युप- जीविपर्य्युदासासङ्गतिः । अत्रानध्ययनं भ्रान्ता- नाम् । प्रेतपक्षोत्तरद्बितीयायां तन्निषेधात् । यथा च राजमार्त्तण्डे । “प्रे को चै चा द्वितीयास्ताः प्रेतपक्षे गते तु या । या तु कोजागरे याते चैत्र्यावल्याः परेऽपि च ॥ चातुर्मास्ये मसाप्ते च द्वितीया या भवेत्तिथिः । परास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः ॥” ज्यातिषे । तथा यमद्वितीयायां यात्रायां मरणं भवेत् । इति तिथ्यादितत्त्वम् ॥ * ॥
अस्यां व्रत- विधानं यथा, — नारद उवाच । “भगवन् ! प्रष्टुमिच्छामि त्वामहं विनया- न्वितः । तद्व्रतं ब्रूहि मे स्वामिन् ! मृत्युं येन न पश्यति ॥ अल्पदोषं महत्पुण्यं शोभनं व्रतमुत्तमम् । प्रसादं कुरु मे स्वामिन् ! यथाहं तत् करोमि भोः ॥ ब्रह्मोवाच । यदि चेच्छसि विप्रेन्द्र व्रतानां व्रतमुत्तमम् । व्रतं यमद्बितीयाख्यं शृणु त्वं मृत्युवारणम् ॥ कार्त्तिके मासि शुक्लायां द्वितीयायां मुनीश्वर ! । कर्त्तव्यं तद्विधानेन ह्यपमृत्युनिवारणम् ॥ ब्राह्मे मुहूर्त्ते चोत्थाय चिन्तयेदात्मनो हितम् । प्रातः कृत्वा द्विजः स्नानं दन्तधावनपूर्ब्बकम् ॥ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः ॥ विधिं विष्णुञ्च रुद्रञ्च संस्थाप्यौडम्बरे शुमे । पद्मं सप्तदलं कृत्वा पूजयेत् सुस्थमानसः ॥ चन्दनागुरुकर्पूरकुङ्कुमैर्द्बिजसत्तम् ! । पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलादिभिः फलैः ॥ सरस्वतीञ्च वरदां वीणापुस्तकधारिणीम् । ध्यायेत् शुक्लाम्बरधरां हंसवाहनसंस्थिताम् ॥ ततो मृत्युविनाशार्थं सालङ्कारां पयस्विनीम् । विप्राय वेदविदुषे गाञ्च दद्यात् सवत्सकाम् ॥ अपमृत्युविनाशाय संसारार्णवतारिकाम् । विप्र तुभ्यमिमां रौद्रीं धेनुं सम्प्रददे ह्यहम् ॥ इति वाक्यविचारेण धेनुं दद्याद्द्विजातये । कुलीनाय सुशान्ताय रोगहीनद्बिजाय वै ॥ तदभावे चोदकुम्भं सवस्त्रं सहिरण्यकम् । औडुम्बरविधानेन सम्प्रदद्याद्द्विजातये ॥ तस्याप्यलाभे विप्रेन्द्र ! विप्राय सदुपानहौ । दद्यात् कार्त्तिकशुक्लायां द्बितीयायां विशेषतः ॥ ज्ञातिश्रेष्ठान् तथा वृद्धान् संपूज्य चाभिवादयेत् । नारिकेलादिदानेन तोषयेत् स्वजनानपि ॥ ततः सोदरसम्पन्ना भगिनी याभवन्मुने ! । तस्या गृहं समागत्य श्रद्दधानोऽभिराजयेत् ॥ भद्रे भगिनि ! शुभगे त्वदङ्घ्रिसरसीरुहे । श्रेयसेऽद्य नमस्कर्त्तुमागतोऽहं तवालयम् ॥ इति श्रुत्वा भगिन्यादिः सोदरं विनयान्वितम् । मृदुवाक्यैस्ततस्तस्य पूजनं क्रियते महत् ॥ अद्य भ्रातृमती भ्रातस्त्वं नो वयसि बान्धवः । भोक्तव्यं भोऽद्य मद्गेहे त्वायुषे कुलदीपक ! ॥ कार्त्तिके शुक्लपक्षस्य द्वितीयायां सहोदरः । यमो यमुनया पूर्ब्बं भोजितः स्वगृहेऽर्च्चितः । अस्मिन् दिने यमेनापि पूजिता भगिनी शुभा ॥ स्वसुर्नरो वेश्मनि यो न भुङ्क्ते यमद्वितीयादिनमेव लब्ध्वा । तं पापिनं सर्व्वसुराः प्रबुध्य संसारमार्गे रटयन्ति विप्र ! ॥ तस्माद्भ्रात्रा स्वसृगृहे भोक्तव्यं मासि कार्त्तिके । शुक्लायाञ्च द्वितीयायां सर्व्वैश्वर्य्याय भो द्बिज ! ॥ वर्षे वर्षे च कर्त्तव्यं यशसे आयुषे श्रिये । ततः सम्प्राप्य सुमते भगिन्यै सुविधानतः ॥ स्वर्णालङ्कारवस्त्रादिदानसत्कारमादरात् । प्रदद्यान्मुनिशार्द्दूल प्रश्रयावनतः सुधीः ॥ स आशीषं प्रगृह्यास्या नमस्कृत्य क्षमापयेत् । सर्व्वा भगिन्यः सन्तोष्या ज्येष्ठानुक्रमशस्तदा ॥ वस्त्रान्नपानसत्कारैर्भोजनैः पुष्टिवर्द्धनैः । करोत्येवं नरो विद्बान्न याति यमयातनाम् ॥ अपमृत्युं न चाप्नोति सत्यं सत्यं हि नान्यथा ॥ यैर्भगिन्यः सुवासिन्यो वस्त्रालङ्कारतोषिताः । न तेषां वत्सरं यावत् कलहो न रिपोर्भयम् ॥ व्रतस्यास्य प्रसादेन भूताः प्रेताश्च राक्षसाः । दूरादेव पलायन्ते धर्म्मराजेन ताडिताः ॥ यो देवो महिषारूढो दण्डमुद्गरधारकः । वेष्टितः किङ्करैर्दष्टैस्तस्मै कालात्मने नमः ॥ इत्थं त्वं दिजशार्द्दूल ! कुरुष्व तद्व्रतं शुभम् । रम्यं यमद्वितीयाख्यमपमृत्युनिवारणम् ॥ व्रतस्यास्य प्रभावेन पुत्त्रपौत्त्रसमन्वितः । सत्यं वदामि ते विप्र ! गृहस्थः स्यात् सदैव हि ॥ गार्हस्थ्येन समो धर्म्मो न भूतो न भविष्यति । सन्देहोऽत्र न कर्त्तव्य इह लोके परत्र च ॥ ये वै यमद्वितीयाख्यं व्रतं कुर्व्वन्ति मानवाः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ अपुत्त्रो लभते पुत्त्रं धनहीनो लभेद्धनम् । भार्य्याहीनो लभेद्भार्य्यां सुरूपां कुलसम्भवाम् ॥ यस्यां तिथौ यमुनया यमराजदेवः संभोजितः सकललोकनिपातदक्षः । तस्यां भुनक्ति सुतिथौ च गृहे भगिन्याः प्राप्नोति वित्तमतुलं स चिरायुरेव ॥” इति पाद्मे उत्तरखण्डे १२५ अध्यायः ॥



Correction: