वाचस्पत्यम्
यमन || न० यम—ल्युट् । १ बन्धने २ उपरमे च मे द० । यमयति ल्य । ३ यमे पु० मेदि०
शब्दकल्पद्रुमः
यमनं || क्ली (यम् + भावे ल्युट् ।)
बन्धनम् । उपरतिः । इति मेदिनी । ने, १११ ॥ (संयमः । यथा, हरिवंशे भविष्यपर्व्वणि । १६ । ४८ । “अणुर्वामननामासि यतस्त्वं वामनाख्यया । मननान्मुनिरेवासि यमनाद् यतिरुच्यसे ॥”)
शब्दकल्पद्रुमः
यमनः || पुं, (यमयति नियमयतीति । यम् + ल्युः ।)
यमः । इति मेदिनी । ने, १११ ॥ (यमयति वशमानयतीन्द्रियग्राममिति । संयमकर्त्तरि, त्रि । यथा, वाजसनेयसंहितायाम् । ९ । २२ । “यन्तासि यमनो ध्रुवोऽसि धरुणः ।” “यमनः स्वयं संयमनकर्त्ता भवसि ।” इति तद्- भाष्ये महीधरः ॥ नियमकारिणि च त्रि । यथा, तत्रैव । १४ । २२ । “यन्त्री राड्यन्त्र्यसि यमनी ध्रुवासि धरित्री ।” “यमनी सर्व्वेषां नियमकारिण्यसि ।” इति तद्भाष्ये महीधरः ॥)