शब्दकल्पद्रुमः
यमराट् || [ज्] पुं, (प्राणिसंयमनात् यमप्रभृतयः किङ्करास्तेषु राजते यमेन संयमेन राजते इति वा । राज् + क्विप् । इत्यमरटीकायां रघु- नाथः ।) यमः । इत्यमरः । १ । १ । १६ ॥