वाचस्पत्यम्
यमवाहन || पु० यमं वाहयति स्यानात् स्वानान्तरं नयति वह—स्वार्थे णिच्—ल्यु । महिषे हेमच० ।
शब्दकल्पद्रुमः
यमवाहनः || पुं, (यमस्य वाहनः ।)
महिषः । इति हेमचन्द्रः । ४ । ३४७ ॥ (तथास्य पर्य्यायः । “महिषो घोटकारिः स्यात् कासरश्च रजस्वलः । पीनस्कन्धः कृष्णकायो लुलापो यमवाहनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)