शब्दकल्पद्रुमः
यमानिका || स्त्री (यमानी + स्वार्थे कन् ।)
यमानी । तत्पर्य्यायः । अजमोदा २ उग्रगन्धा ३ ब्रह्मदर्भा ४ । इत्यमरः । २ । ४ । १४५ ॥ “चत्वारि यमान्याम् । यमानी द्विविधा एका क्षेत्रयमानी सा अजमोदा इत्येव ख्याता । अपरा यमानी इत्येव ख्याता अविशेषात् द्वरोरपीति सुभूतिः । केचित्तु अजमोदादिद्वयं वनयमान्यां ब्रह्मदर्भादिद्वयं यमान्यामित्याहुः । उग्रगन्धाजमोदाख्या स्मृता क्षेत्रयमानिका इति । ‘यमानी दीपको दोप्यो भूतिकश्च यमानिका ।’ इति च रत्नः । यच्छति विर- मति निवर्त्तते अग्निमान्द्यमनया यमानी । यमौ उ विरतौ नाम्नीति अनट् ईप् यमानी स्वार्थे के यमानिका यमानी पञ्चमवर्गपञ्चममध्या । यवानीति अन्तःस्थचतुर्थमध्या इति केचित् ।” इति भरतः ॥ * ॥
अस्या गुणाः । कुष्ठशूल- नाशित्वम् । हृद्यत्वम् । पित्ताग्निकारित्वम् । वायुकफकृमिनाशित्वञ्च । इति राजवल्लभः ॥