संस्कृत-शब्दकोशः

यमी यमुनाजनक

यमुना

वाचस्पत्यम्

यमुना ||‍ स्त्री यम—उनन् । १ कालिन्द्यां नद्यां २ यमभगिन्याम् सूर्य्यसुतायाम् अमरः । ३ दुगायाञ्च देवीपु० ।


शब्दकल्पद्रुमः

यमुना || स्त्री (यमयतीति । यमि + “अजियमि शीङ्भ्यश्च ।” उणा ० ३ । ६१ । इति उनन् । टाप् ।)
दुर्गा । यथा, —
“सर्व्वाणि हृदयस्थानि मङ्गलानि शुभानि च । ददाति चेप्सितान् लोके तेन सा सर्व्वमङ्गला ॥ सङ्गमाद्गमनाद्गङ्गा लोके देवी विभाव्यते । यमस्य भगिनी जाता यमुना तेन सा मता ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥
यच्छति विरमति गङ्गायामिति । नदी- विशेषः । सा तु हिमालयदक्षिणदेशान्नि- र्गत्य प्रयागे गङ्गायां मिश्रिता । तत्पर्य्यायः । कालिन्दी २ सूर्य्यतनया ३ शमनस्वसा ४ । इत्यमरः । २ । १० । ३२ ॥ तपनतनूजा ५ कलिन्द- कन्या ६ यमस्वसा ७ श्यामा ८ तापी ९ कलिन्द- नन्दिनी १० यमनी ११ यमी १२ । इति शब्दरत्नावली ॥ कलिन्दशैलजा १३ सूर्य्य- सुता १४ । इति जटाधरः ॥ (यथा, —
“गङ्गा सरस्वती शोणयमुना सरयूः सची । वेणा इरावती नीला उत्तरात् पूर्ब्बवाहिनी ॥” इति हारीते प्रथमे स्थाने अप्तमेऽध्याये ॥)
अस्या जलगुणाः । पित्तदाहवमनश्रमापहत्वम् । स्वादुत्वम् । वातजननत्वम् । पावनत्वम् । वह्नि- दीपनकरत्वम् । रोचनत्वम् । बलप्रदत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
सा यमस्य भगिनी । यथा, —
“सावर्णिर्मेरुपृष्ठे तु तपो घोरं चकार ह । अद्यादि भविता लोके मनुः सावर्णिकेऽन्तरे ॥ भ्राता शनैश्चरश्चास्य ग्रहत्वं स तु लब्धवान् । तयोर्यवीयसी या तु यमस्वसा यशस्विनी । अभवत् सा सरिच्छ्रेष्ठा यमुना लोकपावनी ॥” इति बह्निपुराणे सागरोपाख्यानम् ॥ * ॥
सा च वृन्दावने सुषुम्नाख्या परा शक्तिः । यथा, श्रीभगवानुवाच । “इदं वृन्दावनं रम्यं मम धामैव केवलम् । तत्र ये पशवः साक्षाद्वृक्षाः कीटा नराधमाः । ये वसन्ति ममाधिष्ठं मृता यान्ति ममान्तिकम् ॥ तत्र या गोपपत्न्यश्च निवसन्ति ममालये । योगिन्यस्तात ! एवं हि मम देवाः परायणाः ॥ पञ्चयोजनमेवं हि वनं मे देहरूपकम् । कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी ॥” इति पाद्मे पातालखण्डे ७ अध्यायः ॥ * ॥
अस्या जलस्य कृष्णवर्णत्वकारणं यथा, — पुलस्त्य उवाच । “यदा दक्षसुता ब्रह्मन् ! सती याता यमक्षयम् । विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः ॥ ततो वृषध्वजं दृष्ट्वा कन्दर्पः कुसुमायुधः । अपत्नीकं तदास्त्रेण औन्मादेनाभ्यताडयत् ॥ ततो हरः शरेणाथ औन्मादेनाभिताडितः । विवचार तदोन्मत्तः काननानि सरांसि च ॥ स्मरन् सतीं महादेवस्तथोन्मादेन ताडितः । न शर्म्म लेभे देवर्षे वाणबिद्ध इव द्बिपः ॥ ततः पपात देवेशः कालिन्दीसरिते मुने । निमग्ने शङ्करे चापे दग्धा कृष्णत्वमागता ॥ तदाप्रभृति कालिन्द्या दृगञ्जननिभं जलम् ॥” इति वामने ६ अध्यायः ॥ * ॥
ज्यैष्ठशुक्लद्वादश्यादिष्वस्यां स्नानपिण्डदानफलं यथा, —
“यज्ज्यैष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥ यमुनासलिले स्नातः पुरुषो मुनिसत्तम ! । ज्येष्ठामूलामले पक्षे द्वादश्यामुपवासकृत् ॥ समभ्यर्च्च्याच्युतं सम्यक् मथुरायां समाहितः । अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ज्येष्ठामूले सिते पक्षे समभ्यर्च्च्य जनार्द्दनम् । धन्यो नः पिण्डनिर्व्वापं यमुनायां प्रदास्यति ॥” इति विष्णुपुराणे ६ अंशे ८ अध्यायः ॥



Correction: