शब्दकल्पद्रुमः
यमुनाभित् || [द्] पुं, (यमुनां भिनत्तीति । भिद् + क्विप् ।)
बलदेवः । इति हेमचन्द्रः । २ । १३८ ॥ (एतद्वृत्तान्तमुक्तं यथा, हरिवंशे । १०२ । ३४ — ३६ । “स हलेनानताग्रेण कुले गृह्य महानदीम् । चकर्ष यमुनां रामो व्युत्थितां वनितामिव ॥ सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया । व्यावर्त्तत नदी भीता हलमार्गानुसारिणी ॥ लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिनी । सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥”)