शब्दकल्पद्रुमः
यवप्रख्या || स्त्री (यव इति प्रख्या यस्याः ।)
क्षुद्ररोगविशेषः । तल्लक्षणं यथा, भावप्रकाशे । “यवाकारा सुकठिना ग्रथिता मांसमिश्रिता । पीडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ॥” यवाकारा मध्ये स्थूला प्रान्ते कृशा ॥ तच्चि- कित्सा यथा, —
“अन्त्रालजीं यवप्रख्यां पूर्ब्बं स्वेदैरुपाचरेत् । मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत् । पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ॥”