संस्कृत-शब्दकोशः

यवलास यवशूकज

यवशूक

वाचस्पत्यम्

यवशूक ||‍ पु० यवानां शूकः कारणत्वेनास्त्यस्यः श्वच् । यव क्षारे त्रिका० यवशूकजादयोऽप्यत्र राजनि० ।


शब्दकल्पद्रुमः

यवशूकः || पुं, (यवानां शूकः कारणत्वेनास्त्यस्य । अर्शआद्यच् ।)
यवक्षारः । इति त्रिकाण्ड- शेषः ॥ (यथास्य पर्य्यायः । “यावशूको यवक्षारो यवशूको यवाग्रजः । क्षारस्तीक्ष्णस्तीक्ष्णरसो यवजो यवनालजः ॥” इति वैद्यकरत्नमालायाम् ॥)



Correction: