संस्कृत-शब्दकोशः

यवशूकज यवसुर

यवस

वाचस्पत्यम्

यवस ||‍ न० यु—असच् । १ घासे २ तृणे च अमरः ।


शब्दकल्पद्रुमः

यवसं || क्ली (यौतीति । यु + “वहियुभ्यां णित् ।” उणा० ३ । ११९ । इत्यसच् । संज्ञापूर्व्वकत्वान्न वृद्धिः ।)
तृणम् । घासः । इत्यमरः । २ । ४ । १६७ ॥ (यथा, मनौ । ७ । ७५ । “तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥”)



Correction: