वाचस्पत्यम्
यवागू || स्त्री यूयते मिश्र्यते यु—आगू । षड्गुणजलपक्वे द्रवभेदे (याउ) अमरः । “मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि” वैद्यकषरिभाषा ।
शब्दकल्पद्रुमः
यवागूः || स्त्री (यूयते मिश्र्यते इति । यु + “सृयु- वचिभ्योऽन्युजागूजक्नुचः ।” उणा० ३ । ८१ । इति आगूच् ।)
षड्गुणजलपक्वघनद्रवद्रव्यविशेषः । याउ इति भाषा ॥ तत्पर्य्यायः । उष्णिका २ श्राणा ३ विलेपी ४ तरला ५ । इत्यमरः । २ । ९ । ५० ॥ “यूयते मिश्र्यते यावागूः यु ल मिश्रणे नाम्नीति आगूः गुणः । ओषति हिनस्ति ज्वरादिरोगं उष्णिका उषू ष वाधे दहि पूर्व्वेण निक् । श्रायते पच्यते स्म श्राणा श्रा ल पाके क्तः सुल्वाद्योदिति नः । विलिम्पति विलेपी ञि लिपौ शप ञ लेपे पचादित्वादन् । नदादित्वा- दीप् । तरति प्लवति तरला त तरेऽभिभवे प्लुत्यां नाम्नीति अलः । ‘अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे । मण्डश्चतुर्द्दशगुणे यवागूः षड्गुणेऽम्भसि ॥’ इति वैद्यकोक्तो भेद इह नादृतः ॥” इति तट्टी- कायां भरतः ॥ अस्या गुणाः । “यवागूर्ज्वरतृष्णाघ्नी लघ्वी वस्तिविशोधनी । अतीसारे ज्वरे दाहे हिता वह्निप्रदीपनी ॥” इति राजवल्लभः ॥ (अथास्या गुणा लक्षणञ्च । “सन्दीपनी स्वेदकरी यवागूः सम्पाचनी दोषमलामयानाम् । सन्तर्पणी धातु बलेन्द्रियाणां शस्ता भवेत् सा ज्वररोगिणाञ्च ॥” भागैकञ्च भवेत्तत्र द्बिभागेन जलं क्षिपेत् । चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम् ॥ धान्यकस्य समांशानि पिष्ट्वा श्वेतांश्च तण्डुलान् । संशुद्धा शिथिला किञ्चित् सा यवागूर्निगद्यते ॥ यवागूमुपभुञ्जानो जनो नारुचिमाचरेत् । शाकमाषफलैर्युक्ता यवागूः स्याच्च दुर्ज्जरा ॥” इति हारीते प्रथमस्थाने १२ अध्याये ॥ “यावागूः षड्गुणजले सिद्धा स्यात् कृशरा घना । यवागूर्ग्राहिणी वल्या तर्पणी वातनाशिनी ॥” इति मध्यखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥)