संस्कृत-शब्दकोशः

यवान यवानी

यवानिका

शब्दकल्पद्रुमः

यवानिका || स्त्री (दुष्टो यवः । “यवाद्दोषे ।” ४ । १ । ४९ । इत्यस्य वर्त्तिकोक्त्या ङीष् आनुगागमश्च । पक्षे स्वार्थे कन् ।)
ओषधिभेदः । योयानि इति भाषा । तत्पर्य्यायः । दीप्यकः २ दीप्यः ३ यवसाह्वः ४ यवाग्रजः ५ दीपनी ६ उग्रगन्धा ७ वातारिः ८ भूकद- म्बकः ९ यवजः १० दीपनीयः ११ शूलहन्त्री १२ यवानिका १३ उग्रा १४ तीव्रगन्धा १५ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । वातार्शःश्लेष्मशूलाध्मानकृमिच्छर्द्दिनाशि- त्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । अथ यवान्या नामगुणाः ।



Correction: