संस्कृत-शब्दकोशः

यवाम्लज यवासक

यवास

वाचस्पत्यम्

यवास ||‍ पु० यु—आस । १ दुरालभायाम् अमरः । २ खदिरभेदे च शब्दमा० ३ मुण्डासिनी तृखे स्त्री राजनि० टाप् । स्वार्थे क । यवासक तत्रैव ।


शब्दकल्पद्रुमः

यवासः || पुं, (यौतीति । यु + “ऋतन्यञ्जीति ।” उणा० ४ । २ । इत्यादिना आसः ।)
दुरालभा । यथा, —
“यासो यवासो दुष्पर्शो धनुर्यासो दुरालभा ॥” इति रत्नमाला ॥ खदिरभेदः । यथा, —
“कण्टकी वासपत्रश्च यवासः खदिरस्तथा ॥” इति शब्दमाला ॥ यवासा इति ख्याता कण्टकीक्षुपविशेषः । तत्- पर्य्यायः । यासः २ बहुकण्टकः ३ अल्पकः ४ क्षुद्रेङ्गुदी ५ रोदनिका ६ कच्छुरा ७ बाल- पत्रः ८ विषघ्नः ९ कण्टकालुकः १० त्रिक- र्णिका ११ गान्धारी १२ अनन्ता १३ । अस्य गुणाः । मधुरतिक्तत्वम् । शीतत्वम् । पित्तार्त्ति- दाहनाशित्वम् । बलदीपनकारित्वम् । तृष्णा- कफच्छर्द्दिविसर्पजित्त्वञ्च । इति राजनिर्घण्टः ॥



Correction: