शब्दकल्पद्रुमः
यवासशर्करा || स्त्री (यवासेन तद्रसेन कृता शर्करा । शाकपार्थिववत् समासः ।)
यवासरसघटित- शर्करा । तत्पर्य्यायः । सुधामोदकः २ मोदकः ३ तवराजः ४ खण्डसरः ५ खण्डजः ६ खण्ड- मोदकः ७ । अस्या गुणाः । अतिमधुरत्वम् । पित्तश्रमतृषापहत्वम् । वृष्यत्वम् । विदाह- मूर्च्छार्त्तिभ्रान्तिशान्तिकरत्वम् । सरत्वञ्च । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्म- हरी सरा चेति ॥”)