संस्कृत-शब्दकोशः

यविष्ठ यवोत्थ

यवीयस्

वाचस्पत्यम्

यवीयस् ||‍ त्रि० अतिशयेन युवा युवन् + ईयसुन् यवादेशः । १ अतितरुणे २ कनिष्ठे च “अंशमंशं यवीयांसः” स्मृतिः । स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

यवीयान् || [स्] त्रि, (अयमनयोरतिशयेन युवा । युवन् + “द्विवचनविभज्योपपदे तरबीयसुनौ ।” ५ । ३ । ५७ । इति ईयसुन् ।)
कनिष्ठः । (यथा, मनौ । २ । १२८ । “अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ॥” अतिशय युवा । इति मेदिनी । से, ६१ ॥



Correction: