वाचस्पत्यम्
यव्य || न० यवानां भवनं क्षेत्रं यत् । यवभवनयोग्ये क्षेत्रे अमरः । युतश्चन्द्रार्कावत्र यत् । २ चान्द्रे मासे पु० । “यव्यद्वय श्रावणादि सर्वा नद्यो रजस्वलाः” प्रा० त० ।
शब्दकल्पद्रुमः
यव्यं || त्रि (यवानां भवनं क्षेत्रम् । यव + “यव- यवकषष्टिकाद् यत् ।” ५ । २ । ३ । इति यत् ।)
यवादिभवनोचितक्षेत्रम् । तत्पर्य्यायः । यव- क्यम् २ षष्टिक्यम् ३ । इत्यमरः । २ । ९ । ७ ॥ यवोचितम् ४ यवकोचितम् ५ । इति शब्द- रत्नावली ॥ (यवेभ्यो हितम् । यव + “खल- यवमाषतिलवृषब्रह्मणश्च ।” ५ । १ । ७ । इति यत् । यवहितः । इति व्याकरणम् ॥)
शब्दकल्पद्रुमः
यव्यः || पुं, (यवेभ्यो हितः । यव + यत् ।)
मासः । यथा, —
“यव्यद्बयं श्रावणादि सर्व्वा नद्यो रजस्वलाः । तासु स्नानं न कुर्व्वीत वर्ज्जयित्बा समुद्रगाः ॥” इति प्रायश्चित्ततत्त्वे गङ्गामाहात्म्यम् ॥ (स्त्री, नदीभेदः । यथा, ऋग्वेदे । ८ । ८७ । ८ । “वार्णत्वा यव्याभिर्व्वर्द्धन्ति शूरब्रह्माणि ।” “यव्याभिः नदीभिः । अवनयः यव्याः इति नदीनामसु पाठात् ।” इति तद्भाष्ये सायणः ॥)