वाचस्पत्यम्
यशस् || न० अश—असुन् धातोः युट् च । शौर्य्यादिभूते ख्यात्यपरपर्य्याये पदार्थे अमरः ।
शब्दकल्पद्रुमः
यशः || [स्] क्ली, (अश्नुते व्याप्नोतीति । अश + “अशेर्देवने युट् च ।” उणा० ४ । १९० । इत्य- सुन् युट्च ।)
सुख्यातिः । तत्पर्य्यायः । कीर्त्तिः २ समज्ञा ३ । इत्यमरः । १ । ६ । ११ ॥ समाख्या ४ कीर्त्तना ५ अभिख्यानम् ६ आज्ञा ७ समज्या ८ । इति शब्दरत्नावली ॥ “दानादिपभवा कीर्त्तिः शौर्य्यादिप्रभवं यशः । इति माधवी ॥ अतएव यशःकीर्त्त्योर्भेदस्यापि दर्शनात् यशः- कीर्त्तिपरिभ्रष्टो जीवन्नपि न जीवति । इति कस्यचित् प्रयोगः । जीवतः ख्यातिर्यशो मृतस्य स्वातिः कीर्त्तिरिति केचित् । तन्न साधु कीर्त्तिस्ते नृप दूतिकेति प्रयोगदर्शनात् ।” इत्यमरटीकायां भरतः ॥ कीर्त्तिनाशे दोषो यथा, —
“हन्ति यः परकीर्त्तिञ्च स्वकीर्त्तिं मानवाधमः । स कृतघ्न इति ख्यातस्तत्फलञ्च निशामय ॥ अन्धकूपे वसेत् सोऽपि यावदिन्द्राश्चतुर्द्दश । कीटैर्नकुलमानैश्च भक्षितः सततं नृप ! ॥ तप्तक्षारोदकं पापी नित्यं पिबति खादति । ततः सर्पो जन्म सप्त काकः पञ्च ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥ (अन्नम् । यथा, ऋग्वेदे । ४ । ५२ । ११ । “वयं स्याम यशसो जनेषु ।” “यशसः कीर्त्तेरन्नस्य वा ।” इति तद्भाष्ये सायणः ॥ त्रि, यशस्वी । यथा, ऋग्वेदे । ८ । ७९ । ५ । “त्वमिन्द्र यशा अस्यृजीषी शवसस्पते ।” “त्वं यशाः यशस्व्यसि भवसि ।” इति तद्भाष्ये सायणः ॥)