संस्कृत-शब्दकोशः

यशस् यशस्या

यशस्कर

शब्दकल्पद्रुमः

यशस्करः || त्रि कीर्त्तिकारकः । सुख्यातिजनकः । यशस्करोति य इत्यर्थे (“कृञो हेतुताच्छील्यानु- लोम्येषु ।” ३ । २ । २० ।)
इति टप्रत्ययेन निष्पन्नः । यशस्करी विद्या इति व्याकरणम् ॥ (यथा, मनौ । ८ । ३८३ । “एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः ॥” विष्णुक्षेत्रविशेषे, क्ली । यथा, नारसिंहे ६२ अः । “विरजं पुष्पवत्यायां बालञ्चामीकरे विदुः । यशस्करं विपाशायां माहिष्मत्यां हुताशनम् ॥” शोभावतीपुर्य्यां जाते ब्राह्मणविशेषे, पुं । यथा, कथासरित्सागरे । १०४ । १९ । “तस्यां यशस्करो नाम विद्वानाढ्यो बहुक्रतुः । ब्राह्मणोऽभूदभूत्तस्य सत्पत्नी मेखलेति च ॥”)



Correction: