शब्दकल्पद्रुमः
यशस्विनी || स्त्री (यशस्विन् + ङीष् ।)
वनका- र्पासी । इति शब्दरत्नावली ॥ यवतिक्ता । महा- ज्योतिष्मती । इति राजनिर्घण्टः ॥ (सत्यव्रतस्य पत्नी । यथा, कथासरित्सागरे । ७३ । २५७ । “अहं यशस्वती नाम राजसेवानुजीविनः । भार्य्या सत्यव्रताख्यस्य विप्रस्येहामलान्वया ॥” गङ्गा । यथा, काशीखण्डे तत्सहस्रनामकथने । २९ । १४१ । “यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥”)