संस्कृत-शब्दकोशः

यशस्विनी यशोद

यशस्विन्

वाचस्पत्यम्

यशस्विन् ||‍ त्रि० यशस् + अस्त्यर्थे विनि । १ यशोयुते स्त्रियां ङीप् । सा च २ ज्योतिष्मतीलतायां ३ यवतिक्तायां राजनि० ४ वनकार्पास्याञ्च शब्दर० ।


शब्दकल्पद्रुमः

यशस्वी || [न्] त्रि, (यशोऽस्त्यस्येति । यशस् + “अस्मायेति ।” ५ । २ । १२१ । इति विनिः ।)
यशोविशिष्टः । कीर्त्तिमान् । इति व्याकरणम् ॥ (यथा, मनौ । ९ । ३३४ । “विप्राणां वेदविदुषां गृहस्थानां यशस्वि- नाम् । शुश्रूषैव तु शूद्रस्य धर्म्मो नैःश्रेयसः परः ॥”)



Correction: