शब्दकल्पद्रुमः
यष्टिका || स्त्री (यष्टि + स्वार्थे कन् । टाप् ।)
हार- भेदः । यथा, —
“यष्टिका दण्डिका चैव तिलका सारिकेत्यपि ॥” इति जटाधरः ॥ वापी । यथा, —
“पल्वलं दीर्घिका वापी यष्टिका मीनगोधिका ॥” इति त्रिकाण्डशेषः ॥ यष्ठिमधुका । यथा, —
“अथ यष्टीमधुकं स्यान्मधुयष्टी तु यष्टिका ।” इति शब्दरत्नावली ॥ लगुडः । यथा, —
“अथ शक्तिश्च शक्ती च यष्टिर्य्यष्टी च यष्टिका । दण्डः काण्डोऽपि लगुडः पशुघ्नो दण्डको- ऽपि च ॥” इति शब्दरत्नावली ॥