संस्कृत-शब्दकोशः

यष्टिग्रह यष्टिमधुका

यष्टिमधु

वाचस्पत्यम्

यष्टिमधु ||‍ न० यष्टौ मधु यस्य । स्वनामख्याते लताभेदे हला० । कप् तत्रार्थे स्त्री अमरः ।


शब्दकल्पद्रुमः

यष्टिमधु || क्ली (यष्ट्यां मधु माधुर्य्यमस्य ।)
यष्टि- मधुका । इति हलायुधः ॥ (यथास्य पर्य्यायः । “यष्ट्याह्नं मधुकं यष्टिः क्लीतकं मधुयष्टिका । यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥” इति वैद्यकरत्नमालायाम् ॥)



Correction: