शब्दकल्पद्रुमः
यष्टिमधुका || स्त्री (यष्टिमधुवत् कायतीति । कै + कः ।)
यष्टिमधु । तत्पर्य्यायः । क्लीतेकम् २ मधु- कम् ३ मधुयष्टिका ४ । इत्यमरः । २ । ४ । १०९ ॥ यष्ट्याह्वम् ५ यष्टिः ६ स्थलेजातं चेत् यष्टिमधु ७ जलजा चेत् अतिरसा ८ । इति रत्नमाला ॥ अपि च । “ज्यैष्ठीमधु तथा यष्टीमधुकं क्लीतकं तथा । अन्यक्लीतनकं तत्तु भवेत्तोये मघूलिका ॥” अस्या गुणाः । “यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्ण- कृत् । सुस्निग्धा शुक्रला केश्या स्वर्य्या पित्तानिला- स्रजित् । व्रणशोथविषच्छर्द्दितृष्णाग्लानिक्षयापहा ॥” इति भावप्रकाशः ॥