वाचस्पत्यम्
यष्टीमधु || पु० यष्ट्यां मधु अस्य । (यष्टिमधु) स्वनामख्याते लताभेदे राजनि० ।
शब्दकल्पद्रुमः
यष्टीमधु || क्ली (यष्ट्यां मधु माधुर्य्यमस्य ।)
मिष्ट- मूलविशेषः । जेठीमधु इति मूलहटी इति च हिन्दी भाषा । तत्पर्य्यायः । मधुयष्टी २ मधु- वल्ली ३ मधुस्रवा ४ मधूकम् ५ मधु ६ यष्टी- कम् ७ यष्ट्याह्वम् ८ ॥ (तथा च । “यष्टीमधु तथा यष्टी मधुकं क्लीतकन्तथा । अन्यत् क्लीतनकन्तत्तु भवेत्तोये मधूलिका ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
अस्य गुणाः । मधुरत्वम् । किञ्चित्तिक्तत्वम् । शीतलत्वम् । चक्षुष्यत्वम् । पित्तहरत्वम् । रुच्य- त्वम् । शोषतृष्णाव्रणापहत्वञ्च । इति राज- निर्घण्टः ॥ (यथा, सुश्रुते चिकित्सास्थाने २७ अध्याये । “तत्र विडङ्गतण्डूलचूर्णमाहृत्य यष्टीमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत ॥”)