शब्दकल्पद्रुमः
यह्वः || पुं, (यजतीति । यज + “शेवायह्वजिह्वा- ग्रीवाप्वामीवाः ।” उणा० १ । १५४ । इति वन्प्रत्ययेन निपातितः ।)
यक्षमानः । इत्यु- णादिकोषः ॥ (त्रि, महान् । यथा, ऋग्वेदे । ३ । १ । १२ । “उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ।” “यह्वो महान् ।” इति तद्भाष्ये सायणः ॥)