शब्दकल्पद्रुमः
याचन् || [त्] त्रि, (याचतीति । याच् + शतृ ।) याचकः । यथा, — “मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम् । मरणे यानि चिह्नानि तानि चिह्नानि याचतः ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥