संस्कृत-शब्दकोशः

याचितक याज

याच्ञा

वाचस्पत्यम्

याच्ञा ||‍ स्त्री याच—नङ् । प्रार्थनायाम् अमरः ।


शब्दकल्पद्रुमः

याच्ञा || स्त्री (याचनमिति । याच् + “यजयाच्- यतविच्छप्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।)
याचनम् । तत्पर्य्यायः । अभिशस्तिः २ याचना ३ अर्थना ४ भिक्षा ५ अर्दना ६ । इत्यमरः । २ । ७ । ३२ ॥ लालसा ७ । इति जटाधरः ॥ (यथा, भागवते । २ । ७ । १७ । “ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां लोकान् विचक्रम इमान् यदथाधियज्ञः । क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः ॥”)
तद्वैदिकपर्य्यायः । ईमहे १ यामि २ मन्महे ३ दद्धि ४ शग्धि ५ पूर्द्धि ६ मिमिढ्ढि ७ मिमीहि ८ रिरिढ्ढि ९ रिरीहि १० पीपरत् ११ यन्तारः १२ यन्धि १३ इषुध्यति १४ मदेमहि १५ मनामहे १६ मायते १७ । इति सप्तदश याच्ञाकर्म्माणः । इति वेदनिघण्टौ ३ अः ॥



Correction: