संस्कृत-शब्दकोशः

याज याजन

याजक

वाचस्पत्यम्

याजक ||‍ पु० याजयति यज—णिच्—ण्वुल् । धनादिलाभाय परार्थं यज्ञकर्तरि ऋत्विगादौ ।


शब्दकल्पद्रुमः

याजकः || पुं, (यजतीति । यज् + ण्वुल् ।)
याज्ञिकः । राज्ञो गजः । इति मेदिनी । के, १४२ ॥ मत्तहस्ती । इति जटाधरः ॥ ऋत्विक् । यथा, “अग्नीध्राद्या धनैर्व्वार्य्या ऋत्विजो याज- काश्च ते ॥” इत्यमरः । २ । ७ । १७ ॥ “यजमानेन धनैर्व्वार्य्याः धनानि दत्त्वा इष्टसम्पा- दनाय व्रियन्ते प्रार्थ्यन्ते ये अग्नीध्रप्रभृतयस्ते ऋत्विजो याचकाश्च कथ्यन्ते । अग्निं इन्धयन्ति दीपयन्ति अग्नीध्राः इन्धी ञि ध ङ द्युतौ ञिः नाम्नीति रः मनीषादित्वान्नलोपः । आदिना ब्रह्मोद्गातृहोत्रध्वर्य्युब्राह्मणाच्छंसिप्रभृतयः षो- डश गृह्यन्ते । वार्य्या इति हसृय्वासोरिति घ्यण् दृभृजुषेत्यादौ वृ ञ इति ञानुबन्धनिर्द्देशात् अन्यवृधातोर्न क्यप् ऋतौ यजन्ति ऋत्विजः क्विप् । यजन्ति याचकाः णकः ।” इति भरतः ॥ * ॥
बहुयाजकग्रामयाजकयोर्निन्दा यथा, —
“अब्राह्मणास्तु षट् प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः । आद्यो राजभृतस्तेषां द्बितीयः क्रयविक्रयी ॥ तृतीयो बहुयाज्यः स्याच्चतुर्थो ग्रामयाजकः । पञ्चमस्तु भृतस्तेषां ग्रामस्य नगरस्य च ॥ अनादित्वाञ्च यः पूर्ब्बां सादित्याञ्चैव पश्चि- माम् । नोपासीत द्बिजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः ॥” इत्याह्निकतत्त्वे सन्ध्योपासनम् ॥ अपि च । “शूद्रसप्तोद्रिक्तयाजी ग्रामयाजीति कीर्त्तितः । शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः ॥ सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः । एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥



Correction: