संस्कृत-शब्दकोशः

याजक याजि

याजन

वाचस्पत्यम्

याजन ||‍ न० यज—णिच्—ल्युट् । दक्षिणार्थमन्यस्य यागसम्पा- दने “यजनं याजनं तथा” मनुः ।


शब्दकल्पद्रुमः

याजनं || क्ली (याज्यते इति । यज् + णिच् + ल्युट् ।)
यागक्रियाकारणा । याग कराण इति भाषा । तत्तु ब्राह्मणस्य षट्कर्म्मान्तर्गतकर्म्मविशेषः । यथा, —
“अध्यापनमध्ययनं यजनं याजनन्तथा । दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥” इति मानवे १ अध्यायः ॥



Correction: