वाचस्पत्यम्
याज्ञिक || पु० यज्ञाय हितः यज्ञः प्रयोजनमस्य वा ठक् । १ दर्भभेदे शब्दर० । २ याजके ऋत्विगादौ ३ खदिरे ४ पलाशे ५ अश्वत्थे राजनि० । ६ यजमाने च ।
शब्दकल्पद्रुमः
याज्ञिकः || पुं, (यज्ञमर्हति यज्ञाय हितो वा । यज्ञ + ठक् ।)
दर्भमेदः ॥ (यज्ञं यज्ञविद्यामधीते वेद वा । वज्ञ + ठक् ।)
याजकः । यज्ञकर्त्ता । इति शब्दरत्नावली ॥ (यथा, भागवते । ११ । १० । २३ । “इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः ॥”)
रक्तखदिरः । पलाशः । अश्वत्थः । इति राज- निर्घण्टः ॥