संस्कृत-शब्दकोशः

भुजो भुज्या

भुज्

भुक् (विशेषण)


अर्थ−
खाने वा उपभोग गर्ने ।


भुज पालनाभ्यवहारयोः


गणः- रुधादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-पालनार्थे परस्मैपदम्तद्भिन्नार्थे आत्मनेपदम्
कर्तरि लटि- भुनक्ति (पालने),भुङ्क्ते(अशने)

अर्थ−
१. संरक्षण गर्नु, पालन गर्नु,
२. खानु, भक्षण गर्नु ।

कृदन्तरूपमाला

  • 1“भुज पालनाभ्यवहारयोः” 2 अभ्यवहारः = भोजनम्।
  • ‘भुजेद् भुनक्ति भुंक्ते स्युः, कौटिल्ये पालनेऽदने।’ 3 इति देवः।
  • 4 भोजकः-जिका, भोजकः-जिका, 5 बुभुक्षकः-क्षिका, बोभुजकः-जिका;
  • भोक्ता-भोक्त्री, भोजयिता-त्री, बुभुक्षिता-त्री, बोभुजिता-त्री;
  • 6 भुञ्जन्-ती, देवदत्तं यज्ञदत्तः- 7 भोजयन्-न्ती, बुभुक्षन्-न्ती;
  • -- भोक्ष्यन्-न्ती-ती, भोजयिष्यन्-न्ती-ती, बुभुक्षिष्यन्-न्ती-ती;
  • -- 8 भुञ्जानः, भोजयमानः, बुभुक्षमाणः, बोभुज्यमानः;
  • भोक्ष्यमाणः, भोजयिष्यमाणः, बुभुक्षिष्यमाणः, बोभुजिष्यमाणः;
  • हुतभुक्, हव्यभुक्, 9 बलिभुक्-बलिभुजौ- 10 बलिभुजः;
  • -- -- भुक्तम्-भुक्तवान्, 11 प्रभुक्तः, भोजितः, बुभुक्षितः, बोभुजितः-तवान्;
  • 12 13 भोजः, 14 विश्वभोजः, 15 उष्णभोजी-शीतभोजी, 16 कलहभोजी, 17 अश्राद्धभोजी, कांस्यभोजी, 18 19 भुञ्जानः, भोजः, 20 बुभुक्षुः, बोभुजः;
  • भोक्तव्यम्, भोजयितव्यम्, बुभुक्षितव्यम्, बोभुजितव्यम्;
  • प्रनिभोजनीयम्-प्रणिभोजनीयम्, भोजनीयम्, बुभुक्षणीयम्, बोभुजनीयम्;
  • 21 भोज्यम्-भोग्यम्, भोज्यम्, बुभुक्ष्यम्, बोभुज्यम्;
  • ईषद्भोजः-दुर्भोजः-सुभोजः;
  • -- -- भुज्यमानः, भोज्यमानः, बुभुक्ष्यमाणः, बोभुज्यमानः;
  • 22 भुजः-भोगः, 23 भोगः, भोजः, बुभुक्षः, बोभुजः;
  • भोक्तुम्, 24 भोक्तुं शक्नोति, भोजयितुम्, बुभुक्षितुम्, बोभुजितुम्;
  • 25 भुक्तिः, 26 भुजिः, अन्नभोजिका, भोजना, 27 बुभुक्षा, बोभुजा;
  • भोजनम्, भोजनम्, बुभुक्षणम्, बोभुजनम्;
  • भुक्त्वा, भोजयित्वा, बुभुक्षित्वा, बोभुजित्वा;
  • उपभुज्य, उपभोज्य, प्रबुभुक्ष्य, प्रबोभुज्य;
  • 28 अग्रेभोजम्-भुक्त्वा, प्रथमं भोजं-भुक्त्वा, पूर्वं भोजं-भुक्त्वा वा व्रजति।
  • भोजम् २, भुक्त्वा २, भोजम् २, भोजयित्वा २, बुभुक्षम् २, बुभुक्षित्वा २, बोभुजम् २;
  • बोभुजित्वा २;
  • 29 भुज्युः, 30 भुजिष्यम्-भुजिष्या।

प्रासङ्गिक्यः

  • ↑ (११६२)
  • ↑ (७-रुधादिः-१४५४। सक। अनि। पर।)
  • ↑ (श्लो। ६५)
  • ↑ [पृष्ठम्०९५७+ २५]
  • ↑ १। सन्नन्ते सर्वत्र ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, धातुजकारस्य षकारे, तस्य ‘षढोः कः सि’ (८-२-४१) इति ककारे च रूपनिष्पत्तिर्ज्ञेया।
  • ↑ २। शतरि, शपो रुधादित्वेन श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इति श्नमोऽकारस्य लोपे नकारस्य श्चत्वेन ञकारे च रूपमेवम्।
  • ↑ ३। अभ्यवहारार्थे धातोरस्य ण्यन्तात्, ‘निगरणचलनार्थेभ्यः’ (१-३-८७) इति शतैव। ‘गतिबुद्धिप्रत्यवसानार्थ--’ (१-४-५२) इत्यादिना अणौ कर्तुः णौ कर्मसंज्ञाऽत्रेति विशेषः।
  • ↑ ४। ‘भुजोऽनवने’ (१-३-६६) इत्यनेन अवनभिन्नार्थे आत्मनेपदं शानच्। ण्यन्तेऽपि पालनार्थे शानज्ज्ञेयः। सन्नन्तेऽपि पालनार्थे ‘पूर्ववत् सनः’ (१-३-६२) इति शानज्भवतीति बोध्यम्। धातूनामनेकार्थत्वात्, ‘भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी।’ (रामा-अर। ४७-४), ‘बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्।।’ (रघुवंशे। १५-१) इत्यादिषु, अनुभवार्थेऽपि आत्मनेपदं भवतीति बोध्यम्। स्पष्टमिदं माधवधातुवृत्तौ।
  • ↑ ५। कर्मण्युपपदे ‘क्विप् च’ (३-२-७६) इति कर्तरि क्विप्। बलिभुक् = वायसः।
  • ↑ आ। ‘तूष्णीं प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान्।।’ अनर्घराघवे ४। १।
  • ↑ ६। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति कर्तरि क्तः।’ ‘प्रभुक्तो गोरसं कृष्णः प्रभुक्तोऽनेन गोरसः।’ इति प्र। सर्वस्वे। अस्य धातोर्भक्षणार्थकत्वात् ‘क्तोऽधि- करणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणेऽपि क्तप्रत्ययो बोध्यः। प्रत्यवसानार्थकाः = भक्षणार्थका धातवः।
  • ↑ [पृष्ठम्०९५८+ २९]
  • ↑ १। इगुपधलक्षणं कप्रत्ययं बाघित्वा ‘अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः।’ (का। ३-१-१३४) इति वचनात् कर्तरि अच्प्रत्ययः।
  • ↑ २। विश्वं भुनक्ति इति विश्वभोजः। ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्ययः।
  • ↑ ३। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः। एवं शीतभोजी, कलहभोजी इत्यत्रापि ज्ञेयम्। कलहं भुनक्ति = पालयति इति कलहभोजी = नारदः।
  • ↑ आ। ‘… पुरतोऽभवत् कलहभोजिनो मुनेः।।’ च। भा। ५। ५३।
  • ↑ ४। ‘व्रते’ (३-२-८०) इति णिनिप्रत्ययः। सति भोजनेऽश्राद्धमेव भुङ्क्ते इत्यत्र व्रतं गम्यते। एव कांस्यभोजी इत्यत्रापि व्रते गम्ये णिनिप्रत्यय इति ज्ञेयम्।
  • ↑ (भोगं)
  • ↑ ५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति चानश्प्रत्ययः। ताच्छीलि- कोऽयं प्रत्ययः।
  • ↑ B। ‘बलात् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा।।’ भ। का। ४। २।
  • ↑ ६। ‘भोज्यं भक्ष्ये’ (७-३-६९) इति ण्यति कुत्वाभावो निपात्यते। ‘भक्ष्ये’ इत्यत्रोपल क्षणं खादनसामान्यधर्मस्य। तेन ‘भोज्या यवागूः’ इत्यत्र पानार्थकस्यापि भोज्या इति सिद्ध्यति। भक्षणादिभिन्नार्थे तु ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे भोग्यः = कम्बलः इति सिद्ध्यति।
  • ↑ ७। ‘भुजन्युब्जौ पाण्युपतापयोः’ (७-३-६१) इति पाणावभिधेये घञि कुत्वाभावः, गुणाभावश्च निपात्यते। भुज्यतेऽनेनेति भुजः = पाणिः। ‘बाहावभिधेये भुज इति प्रयोगो लाक्षणिकः।’ इति बृहच्छब्देन्दुशेखरे स्फुटम्। भुजादन्यत्र घञि कुत्वे भोगः = शरीरम्।
  • ↑ ८। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। भोगः = स्त्रीभोगाज्जातोऽक्षिरोगविशेषः। कारणे कार्योपचारोऽत्र। भोगः = सर्पकायश्च।
  • ↑ ९। पूर्वकालत्वाभावेऽपि शक्नोत्यर्थे ‘शकधृषज्ञा--’ (३-४-६५) इति तुमुन्प्रत्ययः।
  • ↑ [पृष्ठम्०९५९+ २६]
  • ↑ १। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक्प्रत्ययः। अन्नभोजिका इत्यत्र उत्पत्तिरूपार्थे ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति स्त्रियां ण्वुच्। ‘पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका।।’ इति प्र। सर्वस्वे।
  • ↑ आ। ‘अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया।।’ भ। का। ७। ८४।
  • ↑ २। ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (३-४-२४) इति अग्रेप्रथमपूर्वशब्देषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ विकल्पेन भवतः।
  • ↑ ३। ‘भुजिमृङ्भ्याम्--’ (द। उ। १-१३५) इति युक्प्रत्ययः। भुज्युः = गन्धर्वः।
  • ↑ ४। ‘रुचिभुजिभ्यां किष्यन्’ (द। उ। ८-१५) इति किष्यन्प्रत्ययः। भुजिष्यम् = भोग्यम्। भुजिष्या = दासी।


भुजो कौटिल्ये


गणः- तुदादिः
कर्मकः-अकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- भुजति

अर्थ−
१. वक्र हुनु, टेढिनु, बाङ्गिनु ।

कृदन्तरूपमाला

  • 1“भुजो कौटिल्ये” 2 ‘भुजेद् भुनक्ति भुङ्क्ते स्युः कौटिल्ये पालनेऽदने।’ 3 इति देवः।
  • भोजकः-जिका, भोजकः-जिका, बुभुक्षकः-क्षिका, बोभुजकः-जिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना रौधादिकभुजधातुवत् 4 ज्ञेयानि।
  • 5 भुग्नः 6 -भुग्नवान्, 7 विभुजन्-न्ती-ती, 8 मूलविभुजः, 9 10 भुजः, 11 भोगः;
  • इमानि रूपाण्यधिकान्यत्रेति विशेषः।

प्रासङ्गिक्यः

  • ↑ (११६३)
  • ↑ (६-तुदादिः-१४१७। अक। अनि। पर।)
  • ↑ (श्लो। ६५)
  • ↑ (११६२)
  • ↑ ५। धातोरस्य, ओदित्त्वेन, ‘ओदितश्च’ (८-२-४४) इति निष्ठानत्वम्।
  • ↑ B। ‘महाभराभुग्नशिरः सहस्रसाहायकव्यग्रभुजं प्रसस्रे।।’ शि। व। ३। २५।
  • ↑ ६। शतरि, तुदादित्वाच्छप्रत्यये तस्य ङिद्वद्भावेनाङ्गस्य गुणो न। स्त्रियां नुम्विकल्प इति विशेषः।
  • ↑ ७। मूलानि विभुजतीति मूलविभुजः = रथः। ‘कप्रकरणे--मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कर्मण्यणोऽपवादः कप्रत्ययः।
  • ↑ [पृष्ठम्०९६०+ २७]
  • ↑ १। इगुपधलक्षणे कर्तरि कप्रत्यये रूपमेवम्।
  • ↑ २। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि ‘चजोः कु--’ (७-३-५२) इति कुत्वे च रूपमेवम्। ‘भोगः = सर्पकायः।’ इति क्षीरस्वामी। “अथवा भोग- शब्दः शरीरवाच्यपि दृश्यते। तद्यथा-- ‘अहिरिव भोगैः पर्येति बाहुम्--’ (ऋ। वे। ६-७५-१४) अहिरिव शरीरैरिति गम्यते” इति भाष्य (५-१-९) वचनप्रामाण्यात् शरीरसामान्ये भोगशब्दस्य वृत्तिरिति गम्यते।



Correction: