शब्दकल्पद्रुमः
यातं || क्ली (या + क्तः ।)
निषादिनां पादकर्म्म । इति हेमचन्द्रः । ४ । १९७ ॥ पुस्तकान्तरे यत- मिति पाठः । यथा, —
“अपष्टन्त्वङ्कुशस्याग्रं घातमङ्कुशवारणम् । निषादिनां पादकर्म्म या(य)तं वीतन्तु तद्द्वयम् ॥”
शब्दकल्पद्रुमः
यातः || त्रि गतः । याधातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, मनुः । ४ । १७८ । “येनास्य पितरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यते ॥”)