शब्दकल्पद्रुमः
याज्या || स्त्री (यजन्त्यनया । यज् + ण्यत् + टाप् ।) ऋक् । इति मुग्धबोधव्याकरणम् ॥ (गङ्गा । यथा, काशीखण्डे सहस्रनामकीर्त्तने । २९ । १४२ । “योगसिद्धिप्रदा याज्या यज्ञेशपरिपूजिता ॥”)