संस्कृत-शब्दकोशः

यातव्य यातिक

यातायात

वाचस्पत्यम्

यातायात ||‍ न० यातञ्चायातञ्च या—भावे क्त । आ + या—भावे क्त समाहार द्व० । गमनागमनयोः ।


शब्दकल्पद्रुमः

यातायातं || क्ली गमनागमनम् । यथा, —
“पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः । यत्संस्कारकलानुवर्त्तनवशाद्बेलानिभेनाम्भसां यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्रा- म्यति ॥” इति श्रीभागवते १२ स्कन्धे १३ अध्यायः ॥



Correction: