वाचस्पत्यम्
यादव || पु० यदोर्गोत्रापत्यमण् । १ यदुवंश्ये स्त्रियां ङीप् । २ तत्प्रधाने श्रीकृष्णे पु० शब्दर० । यदूनामिदमण् ३ गोमहिषादिके धने न० अभ० । ४ दुर्गायां स्त्री त्रिका० ङीप्
शब्दकल्पद्रुमः
यादवः || पुं, (यदोरपत्यम् । यदु + अण् ।)
श्रीकृष्णः । इति शब्दरत्नावली ॥ (यथा, भग- वद्गीतायाम् । ११ । ४१ । “सखेति मत्वा प्रसभं यदृक्तं हे कृष्ण ! हे यादव ! हे सखेति । अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ॥”)
ययातेर्ज्येष्ठपुत्त्रो यदुस्तस्य वंशः । यथा, —
“ययातेर्ज्येष्ठपुत्त्रस्य यदोर्वंशं नरर्षभ ! ।” इत्युपक्रम्य । “माधवा वृष्णयो राजन् यादवाश्चेतिसंज्ञितम् ॥” इति श्रीभागवते ९ स्कन्धे २३ अध्यायः ॥ (यदुसम्बन्धिनि, त्रि । यथा, भागवते । ११ । १ । ३ । “मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं यद्यादवं कुलमहो अविसह्यमास्ते ॥”)