शब्दकल्पद्रुमः
यादसांपतिः || पुं, (यादसां जलजन्तूनां पतिः । षष्ठ्या अलुक् ।)
समुद्रः । इत्यमरः । १ । १ । ६४ ॥ वरुणः । इति मेदिनी । ते, २३२ ॥ (यथा, देवीभागवते । ३ । ९ । ३५ । “अश्विनौ वसवस्त्वष्टा कुवेरो यादसांपतिः ॥” क्वचित् विशेषणमपि । यथा, मार्कण्डेये । २२ । ११ । “यावदन्तर्जले देवं वरुणं यादसांपतिम् ॥”)