संस्कृत-शब्दकोशः

यादृश यादोनाथ

यादृश्

वाचस्पत्यम्

यादृश् is an alternate of यादृक्ष. यादृक्ष(श)(श्) ||‍ त्रि० यस्येव दर्शनमस्य यद् + दृश्—क्म (ट) क्विप् वा । यत्सदृशे यथाविधे । टान्तात्तु स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

यादृक् || [श्] त्रि, (य इव दृश्यते । दृश् + “त्यदा- दिषु दृशोऽनालोचने कञ्च् ।” ३ । २ । ६० । इति चकारात् क्विन् । “आ सर्व्वनाम्नः ।” ६ । ३ । ९१ । इत्याकारादेशः ।)
य इव दृश्यते सः । इति मुग्धबोधव्याकरणम् ॥ येमन इति भाषा । (यथा, भागवते । ४ । २९ । ६४ । “नानुभूतं क्वचानेन देहेनादृष्टमश्रुतम् । कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि ॥”)



Correction: