शब्दकल्पद्रुमः
यानपात्रं || क्ली (यानसाधनं पात्रम् । शाकपार्थिव- वत् समासः ।)
निष्पदयानविशेषः । जाहाज इति भाषा ॥ तत्पर्य्यायः । वहित्रकम् २ वोहित्थम् ३ वहनम् ४ पोतः ५ । इति हेमचन्द्रः । ३ । ५३९ ॥ समुद्रयानम् ६ । इति वराहपुराणम् ॥ (यथा, हरिवंशे । १४५ । ६३ । “समुच्छ्रितैः सितै पोतैः यानपात्रैस्तथैव च । नौभिश्च झिल्लिकाभिञ्च शुशुभे वरुणालयः ॥”)